________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १०१९ (A)
W
विषयं व्यादिसंयोगनिष्पन्नं प्रायश्चित्तम्। तद्यथा- उद्गमनिष्पन्नमुत्पादनानिष्पन्नमित्यादि। २३३४॥
उक्त उपधिसम्भोगः, सम्प्रति श्रुतसंभोगादीनतिदेशत आहएवं जहा निसीहे, पंचमउद्देसए समक्खाओ । संभोगविही सव्वो, तहेव इहयं पि वत्तव्वो ॥२३३५॥
एवम् उक्तेन प्रकारेण यथा निशीथे निशीथाध्ययने पञ्चम उद्देशके सर्वः श्रुतादिविषयः सम्भोगविधिः समाख्यातस्तथैवेहापि वक्तव्यः । स च ग्रन्थगौरवभयान्न शक्यते लिखितुमिति तत एवावधारणीयः । एष च सम्भोगविधिः पूर्वमस्मिन् अर्धभरते सर्वसंविग्नानामेकरूप आसीत्। पश्चात् कालदोषत इमे साम्भोगिका इमे त्वसाम्भोगिका इति प्रवृत्तम् ॥ २३३५॥
किं कारणम् ? इति चेत् ? अत आहअगडे१ भाउयतिल३तंदुले४ य५ सरक्खे य गोणि असिवे य६ । अविणढे संभोगे, सव्वे संभोइया आसी ॥२३३६ ॥
.
गाथा २३३५-२३३७ विसम्भोग दृष्टान्ताः
१०१९ (A)
For Private and Personal Use Only