________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार-1
सूत्रम् पंचम
उद्देशकः १०१८ (B)|
द्वितीयादिषु भङ्गेषु मासलघु तप:कालविशिष्टम्, असाम्भोगिकैः सममुपकरणं परिभुञ्जानस्य चतुर्ध्वपि भङ्गेषु मासलघु, द्वितीयादिषु तु तपःकालविशिष्टता, पार्श्वस्थादिभिर्गृहस्थादिभिश्च सममुपभुञ्जानस्य भङ्गचतुष्टयेऽपि प्रत्येकं चतुर्लघुकं, यथाच्छन्दैः संयतीभिर्गृहस्थादिभिश्च[च]तुर्गुरु। उभयत्रापि द्वितीयादिषु भङ्गेषु तप:कालविशिष्टता (५) संयोगो द्व्यादिपदानां मीलनं, तत्र भङ्गाः षड्विंशतिः। तद्यथा-दश द्विकसंयोगाः, दश त्रिकसंयोगाः, पञ्च चतुष्कसंयोगाः एकः पञ्चसंयोगः। तत्र दश द्विकसंयोगा इमे- साम्भोगिक: साम्भोगिकेन सममुद्गमेनोत्पादनया च शुद्धमुपधिमुत्पादयतीति प्रथमः, उद्गमेनैषणया च द्वितीयः, उद्गमेन शुद्धमुत्पादयति परिकर्मयति चेति तृतीयः, उद्गमेन शुद्धमुत्पादयति परिहरति चेति चतुर्थः, एते चत्वारोऽपि भङ्गा उद्गमपदममुञ्चता लब्धाः, एवमुत्पादनापदामोचनेन लभ्यन्ते त्रयः, एषणापदामोचनेन द्वौ, परिकर्मणापरिहरणापदयोरेकः। दश त्रिकसंयोगा इमे- साम्भोगिक: साम्भोगिकेन सममुद्गमेनोत्पादनया एषणया च शुद्धमुत्पादयतीति प्रथमः, उद्गमेनोत्पादनया च शुद्धमुत्पादयति परिकर्मयति चेति द्वितीयः, उद्गमेनोत्पादनया च शुद्धमुत्पादयति परिहरति चेति तृतीय इत्याधुपयुज्य वक्तव्यम् । एवं पञ्च चतुष्कसंयोगाः, एकः पञ्चकसंयोगश्च वक्तव्यः। एतेषु च षड्विंशतिभङ्गेषु सम्भोगिकेन समं शुद्धः, असाम्भोगिकादिभिः सममसांभोगिकादि
गाथा २३३५-२३३७ विसम्भोग दृष्टान्ताः
४१०१८ (B)
For Private and Personal Use Only