SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०१८ (A) शुद्धमशुद्धं वोपधिमुत्पादयतश्चतुर्गुरुकम्। एतत् तावत् पुरुषवर्गेऽभिहितं संयतीवर्गेऽपि द्रष्टव्यम् (१) एवं षोडशभिरुत्पादनादोषैर्दशभिरेषणादोषैः [शुद्धं] सांभोगिकेन सममुपधिमुत्पादयन् शुद्धः, विपर्यासे प्रायश्चित्तविधिः पूर्ववत् (२-३)। परिकम्मणत्ति परिकर्मणा नाम यदुपधिमुचितप्रमाणकरणत: संयतप्रायोग्यं करोति। अत्र भङ्गाश्चत्वारः। तद्यथा-परिकर्मणा कारणे विधिना १, कारणेऽविधिना २, निष्कारणे विधिना ३, निष्कारणेऽविधिना ४। अत्र प्रथमभङ्गः शुद्ध:१, द्वितीये मासलघु तपोगुरु२, तृतीये मासलघु कालगुरुकं३, चतुर्थे मासलघु द्वाभ्यां गुरुकम् ४। संविज्ञैरन्यसाम्भोगिकैः समं चतुर्वपि भङ्गेषु मासलघु, अत्रापि द्वितीयादिषु भङ्गेषु पूर्ववत् तपः-कालविशिष्टता। गृहस्थैः पार्श्वस्थादिभिः समं प्रत्येकं चतुर्लघुकम्, यथाच्छन्दैः समं चतुर्गुरुकम्, अत्रापि द्वितीयादिषु भङ्गेषु प्राग्वत् तपःकालविशिष्टता । तथा साम्भोगिकीनां संयतीनामुपधिं विधिना संयतीप्रायोग्यं गणधर: परिकर्मयन् ददानश्च परिशुद्धः। अविधिना परिकर्मयतश्चतुर्गुरु, पार्श्वस्थादिसंयतीनां गृहस्थानां च कारणे विधिनेत्यादिभङ्गचतुष्टये प्रत्येक चतुर्गुरु, द्वितीयादिषु भङ्गेषु तपः-कालविशिष्टता प्राग्वत् (४)। तथा परिहरणा नाम परिभोगस्तत्रापि भङ्गचतुष्टयम्कारणे विधिना १, कारणेऽविधिना २, निष्कारणे विधिना ३, निष्कारणेऽविधिना ४। तत्र प्रथमभङ्गे साम्भोगिकैः सममुपकरणं परिभुञ्जानः शुद्धः, शेषेषु गाथा ४२३३५-२३३७ विसम्भोग दृष्टान्ताः .. १०१८ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy