________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १०१७ (B)
एषणाशुद्धश्च ३, परिकर्मणासम्भोगः ४, परिहरणासम्भोगः ५, संयोगविषयः षष्ठसम्भोगः ६, तत्र यत्साम्भोगिकस्साम्भोगिकेन सममाधाकर्मादिभिः षोडशभिरुद्गमदोषैः शुद्धमुपधिमुत्पादयति एष उद्गमशुद्ध उपधिसंभोग:१। अथाशुद्धमुत्पादयति तर्हि येन दोषेणाऽशुद्धमुत्पादयति तन्निष्पत्रं प्रायश्चित्तमापद्यते, तत्रापीयं व्यवस्था-अशुद्धग्राही साम्भोगिक: 'शिक्ष्यमाणः 'सती मे प्रतिचोदने 'ति मन्यमानो मिथ्यादुष्कृतपुरस्सरं 'न पुनरेवं करिष्यामी 'ति ब्रुवाणः प्रत्यावर्तते तदा यत्प्रायश्चित्तमापन्नं तद् दत्त्वा सम्भोग्यते । एवं द्वितीयवारं तृतीयवारमपि, चतुर्थवेलायां त्वावृत्तस्यापि न सम्भोगः । अथ निष्कारणे अन्यसाम्भोगिकेन समं शुद्धमशुद्धं वोपधिमुत्पादयति तर्हि सोऽपि यदि शिक्ष्यमाण: व्यावर्त्तते ततः सम्भोगविषयीक्रियते, अन्यथा प्रथमवेलायमपि तस्य विसम्भोगः, एवं द्वितीय-तृतीयवारमपि, चतुर्थवारमावृत्तस्यापि नियमतो विसम्भोगः। वारत्रयेऽपि तस्य प्रायश्चित्तं मासलघु। कारणे त्वन्यासाम्भोगिकेनापि सममुपधिमुत्पादयन् शुद्धः। एवं पार्श्वस्थादिभिर्गृहिभिर्यथाच्छन्दैश्च सह वेदितव्यम्। प्रायश्चित्तविधिरपि तथैव। नवरं यथाच्छन्दे मासगुरु, चतुर्गुरुकमित्यपरे। योऽपि पार्श्वस्थादेः सङ्घाटकं प्रयच्छति, तस्यापि मासलघु। तथा संयतीभिः संविनाभिरसंविग्नाभिर्वा साम्भोगिकीभिरसाम्भोगिकीभिर्वा सममदगमेन
सूत्र १९
गाथा २३२४-२३२९
आलोचनाग्रहण विधि:
१०१७ (B)
For Private and Personal Use Only