SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०१५ (A) थेरस्स तस्स किं नू, एद्देहेण किलेसकरणेण? । भण्णइ एगत्तुवयोग सद्धजणणं च तरुणाणं ॥२३२७॥ अथ तस्य स्थविरस्य जीर्ण-महतः किमेतावन्मात्रेण क्लेशकरणेन ? सूरिराहभण्यते अत्रोत्तरं दीयते- एवमाचरतस्तस्य सूत्राऽर्थाभ्यां सह एकत्वोपयोगो भवति। तथा एकत्वोपयोगोपयुक्तस्य तु सूत्रार्थाः सम्यग् लगन्ति। तथा तरुणानां च श्रद्धाजननं कृतं भवति। तथा हि-व्याख्यानमण्डल्या उत्थितमपि निजमाचार्य जीर्णमहान्तमेवं विनयं कुर्वन्तं दृष्ट्वा चिन्तयन्ति- यद्यस्माकमाचार्यो जीर्णमहानप्येवं श्रुतस्य विनयं करोति ततोऽस्माभिस्तरुणैः सुतरां कर्तव्यः। आह शिष्यो- यथा जीर्णमहत आचार्यस्यानुग्रहः क्रियते, यथानुभाषमाणस्य एकपार्श्वे सन्निषण्णस्त्वग्वर्तितो वा तिष्ठत. एवमन्यस्यापि क्रियते ? क्रियते इति ब्रूमः ॥ २३२७॥ तथा चाहसो उ गणी अगणी वा, अणुभासंतस्स सुणति पासम्मि । न चएइ जुण्णदेहो, होउ बद्धासणो सुचिरं ॥२३२८॥ सूत्र १९ गाथा २३२४-२३२९ आलोचनाग्रहण विधि: १०१५ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy