________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पंचम उद्देशक:
१०१४ (B)
कृतिकर्म चापि वन्दनकमपि कर्तव्यम् । यद्यपि च वन्दनके उपस्थितं वाचनाचार्यो ऽ[ना]नुजानाति तथापि क्षमाश्रमणं दत्त्वा कृतप्राञ्जलिना श्रोतव्यम् ॥ २३२४॥
तेण वि धारयेव्वं, पच्छावि य उट्ठिएण मंडलीतो । वेढुद्धनिसण्णस्स व, सारेयव्वं हवति भूयो ॥२३२५॥
तेनापि श्रोत्रा यद् व्याख्यानमण्डल्यां सूत्रमण्डल्यां वा श्रुतं तद् मण्डलीत उत्थितेन पश्चादपि धारयितव्यम्। तस्य च धारयत उपविष्टस्य ऊर्ध्वस्थितस्य निषन्नस्य वा क्वचित स्खलने तेनापि वाचनाचार्येण भूयो भवति सारयितव्यं गमयितव्यम् ॥२३२५ ॥
अह से रोगो न होज, ताहे भासंत एगपासम्मि । सन्निसण्णो तुयट्टो वा, अच्छएऽणुग्गह पवत्तो ॥२३२६॥
अथ से तस्य स्थविरस्य रोगो न भवेत् तर्हि व्याख्यानमण्डल्या उत्थितो भाषमाणस्य अनुभाषमाणस्य चिन्तापयत इत्यर्थः, एकपार्श्वे तत्सेवाबुद्ध्या सन्निषण्णः सम्यग् निषद्यागतस्त्वग्वर्तितो वा भाषमाणस्यानुग्रहप्रवृत्तस्तिष्ठति ॥ २३२६ ॥ पर आह
सूत्र १९
गाथा २३२४-२३२९
आलोचनाग्रहण विधि:
१०१४ (B)
१. वन्दनकेनोपस्थितं वाचनाचार्योनुजानाति-पु. प्रे.॥
For Private and Personal Use Only