________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पंचम
उद्देशकः १०१४ (A)
चैवं- निविष्टो निविष्टं पृच्छति१ऽ निविष्ट उत्थितं पृच्छति २, उत्थितो निविष्टं पृच्छति ३, उत्थित उत्थितं पृच्छति ४ ॥२३२१ ॥
तथा अञ्जलेरकरणम्, अर्थपरिसमाप्तौ प्रणामस्याकरणम्, तथा दिशो विप्रेक्षमाणः पृच्छति, यदि वाऽधोमुख ऊर्ध्वमुखो वा शृणोति, न गुर्वभिमुखः, अथवा येन तेन वा सह भाषमाणः शृणोति, अनुपयुक्तो वा शृणोति, हसन् वा पृच्छति ॥२३२२ ॥
एतेषु सर्वेष्वपि स्थानेषु सूत्रे श्रूयमाणे प्रायश्चित्तं लघुको मासः, अर्थे गुरुमासः, तथा नाभीत उपरि सूत्रं शृण्वतः कायकण्डूयने चत्वारो लघुकाः, अर्थं शृण्वतश्चत्वारो गुरुकाः। नाभीतोऽधस्ताद् सूत्रश्रवणे कायकण्डूयने चत्वारो गुरुकाः, अर्थश्रवणेऽपि चत्वारो गुरुका: नवरं तपःकालयोरन्यतरेण गुरुकाः ॥२३२३ ।। तम्हा वजंतेणं, ठाणाणेयाणि पंजलुक्कडिणा । सोयव्व पयत्तेणं, कितिकम्मं वावि कायव्वं ॥२३२४॥
यस्मादेवमविनयकरणे प्रायश्चित्तविधिः, तस्मादेतानि प्रागनन्तरमुपदर्शितानि स्थानानि वर्जयित्वा प्राञ्जलिना प्रकृताऽञ्जलिना उत्कुडकेन प्रयत्नेन आदरपरतया श्रोतव्यम्।
xxx
सूत्र १९
गाथा २३२४-२३२९
आलोचना| ग्रहण विधि:
१०१४ (A)
For Private and Personal Use Only