________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् पंचम उद्देशकः
१०१३ (A)
܀܀܀܀܀܀
www.kobatirth.org
निधाने उत्खनितव्ये तस्य तदनुरूपमुपचारमुत्खानको यदि करोति ततस्तमुत्खनितुं शक्नोति । अथ न करोति तदनुरूपमुपचारं तर्हि वृश्चिकाद्युपद्रवतो न शक्नोति । एवं यदि समरत्नाधिकेsaमरत्नाधिके वा सूत्रमर्थं वा प्रत्युज्वालयन् अपूर्वं वा पठन् तदनुरूपं विनयं न करोति तदा निर्जरालाभस्तस्य नोपजायते, न च शास्त्रं स्थिरपरिचितं भवति, विभङ्गं वा तस्य ज्ञानं विनयभ्रंशितया प्रान्तदेवता कुर्यात्कलहं वा ॥२३१८ ॥
एतदेवाभिधित्सुः प्रथमतः प्रायश्चित्तमाह
सुत्तम्मि य चउलहुगा, अत्थम्मि य चउगुरुं च गव्वेण । कितिकम्ममकुव्वंतो, पावति थेरो सति बलम्मि ॥२३९९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्थविरः प्रत्युज्ज्वलयन्नपूर्वं पठन् वा सति बले यदि गर्वेण कृतिकर्म न करोति, तर्हि तद् अकुर्वन् सूत्रे सूत्रविषये चतुरो लघुकान् प्राप्नोति, अर्थे चतुर्गुरुकम् ॥ २३१९ ॥
उवयारहीणमफलं, होइ निहाणं करेइ वाऽणत्थं । इय निज्जराए लाभो, न होइ विब्भंग कलहो वा ॥ २३२० ॥
For Private and Personal Use Only
܀܀
गाथा
| २३१७-२३२३
अध्ययने
विनयकरणम्
| १०१३ (A)