________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
पंचम
४४४
उद्देशकः १०११ (A)
__ अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या-स्थविराणां स्थविरभूमिं प्राप्तानामाचार्यपदप्राप्तानामाचारप्रकल्पो नामाध्ययनं परिभ्रष्टं स्यात्, कल्पते तेषां सूत्रं संस्थापयतामसंस्थापयतां वा आचार्यत्वं वा यावत्करणादुपाध्यायत्वं वा स्थविरत्वं वा इति परिग्रहः, गणावच्छेदकत्वमुद्देष्टुम् अनुज्ञातुं, जीर्ण-महत्त्वकारणत: सूत्रधरणाशकनात्। एष सूत्रसंक्षेपार्थः ।। साम्प्रतं भाष्यविस्तरः
सुत्ते अणिते लहुगा, अत्थे अणिते धरेंति चउगुरुगा ।
सुत्तेण वायणा अत्थे, सोही तो दोहऽणुण्णाया ॥२३१४॥ ___ इदं सूत्रमापवादिकम्। उत्सर्गतः पुनः सूत्रे अनागच्छति यदि गणं धारयति तदा तस्य । प्रायश्चित्तं चत्वारो लघुकाः। अर्थे अनागच्छति यदि गणं धारयति तदा चत्वारो गुरुकाः, आज्ञादयश्च दोषाः। तस्मादुभयधरेण गणो धारयितव्यः । किं कारणम्? अत आह-स आगच्छता वाचनां ददाति। अर्थेन आगच्छता प्रायश्चित्तस्थानमापन्नानां शोधिं करोति । तस्माद द्वाभ्यामपि सम्पन्नो गणधारणेऽनुज्ञातः ॥२३१४॥
सूत्र १७
गाथा २३११-२३१६ आचार्यादीनां विस्मरणेऽपि गणधारणम्
१०११ (A)
१. सम्प्रति - वा. मो. पु. सं. ॥
For Private and Personal Use Only