________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् पंचम |
उद्देशकः १०१० (B)
यथा- 'एतन्मया असंयत्या अपि कार्यं जातम्,' एवं खिसित्वा सा ब्रूते- 'यूयं राज्ञः समीपं गत्वा ब्रूत, यदि रक्तपटानां स्तूपस्ततः कल्ये रक्ता पताका दृश्यताम्, अथाऽस्माकं तर्हि शुक्ला पताका'। राज्ञा प्रतिपन्नम् 'एवं भवतु,' ततो राज्ञा प्रत्ययिकपुरुषैः स्तूपो रक्षापितः। रात्रौ देवतया शुक्ला पताका कृता। प्रभाते दृष्टा स्तूपे शुक्ला पताका, जितं सङ्घन ॥२३१२ ।।
सूत्रम्- थेराणं थेरभूमिपत्ताणं आयारपकप्पे नाम अज्झयणे परिब्भढे सिया; कप्पइ तेसिं संठवेत्ताण वा, असंठवेत्ताण वा आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥ १७॥ 'थेराण'मित्यादि, अस्य सम्बन्धमाहएवं ताव पणद्वे, भिक्खुस्स गणो न दिजए सुत्ते । नट्ठसुए मा हु गणं, हरेज थेरे अतो सुत्तं ॥२३१३॥
एवं उक्तेन प्रकारेण तावत्प्रणष्टे सूत्रे प्रकल्पनाम्न्यध्ययने भिक्षोर्गणो न दीयते। एवं स्थविरे आचार्ये नष्टश्रुते मा हुः निश्चितं गणं हरेदतः सूत्रमाह ॥२३१३ ॥
सूत्र १७.
गाथा २३११-२३१६ आचार्यादीनां विस्मरणेऽपि गणधारणम्
४१०१० (B)
For Private and Personal Use Only