________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १००६ (A)
पुट्ठा अनिव्वहंती, किह नटुं ऽबाहतो? पमाएणं? । साहेइ पमाएणं, सो य पमादो इमो होइ ॥२३००॥
सा एवं पृष्टा सती यदि न निर्वहति, न यथावस्थितमुत्तरं ददाति तदा सा अनिर्वहन्ती भूयः प्रष्टव्या कथं । कारणेन ते नष्टमाचारप्रकल्पनामकमध्ययनं?, किमाबाधात: उत प्रमादेन?, तत्र यदि सा कथयति-प्रमादेन, स च प्रमादोऽयं वक्ष्यमाणो भवति ॥२३०० ॥
तमेवाहधम्मकह-निमित्तादी, उ पमातो तत्थ होति नायव्वो । मलयवइ मगहसेणा, तरंगवइयाइ धम्मकहा ॥२३०१॥
तत्र तस्यां संयत्यां धर्मकथा-निमित्तादिकः, आदिशब्दात् ग्रहचरितादिपरिग्रहः, प्रमादो भवति ज्ञातव्यः। तत्र धर्मकथा मलयवती मगधसेना तरङ्गवती, आदिशब्दात् वसुदेवहिण्ड्यादिपरिग्रहः एताः कथा अधीयानाया विस्मृतिं गतं प्रकल्पनामकमध्ययनम् ॥२३०१॥
गाथा २३००-२३०५
प्रमादेन आचाराङ्गविस्मरणमक्षम्यम्
१००६ (A)
१. नट्ठाऽऽबाधतो? खंभा. वाभा. जेभा. ॥ २. केन प्रकारेण-खं. मो. मु.॥
For Private and Personal Use Only