________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशक :
१००५ (B)
www.kobatirth.org
पुणरवि साहति गणिणो, सा नट्ठसुया दलाह में अन्नं । अब्भक्खाणं पि सिया, वाहित्तुं होइमा पुच्छा ॥२२९८ ॥
ततः सा पुनरपि गणिनः आचार्यस्य कथयति यथा- सा नष्टश्रुता, तस्माद् ममान्यां सहायां ददतु, एवमुक्ते आचार्येण विचारयितव्यं सत्यं ? किं परिभ्रष्टं तस्या अध्ययनं किं वा न को जानाति ? अभ्याख्यानमपि काचित् केनापि कारणेन प्रद्विष्टा सती दद्यात् । ततस्तां व्याहृत्य तस्या इयं वक्ष्यमाणा पृच्छा कर्तव्या ॥ २२९८ ॥ तामेवाह
दंडकगह- निक्खेवे, आवसियाए निसीहिया करणे ।
गुरूणं च अप्पणामे, य भणसु आरोवणा का उ ? ॥२२९९॥
Acharya Shri Kailassagarsuri Gyanmandir
दण्डकस्य प्रत्युपेक्षाप्रमार्जनाव्यतिरेकेण ग्रहणे निक्षेपणे च, तथा आवश्यक्या नैषिधिक्याश्चाऽकरणे, बहि: प्रदेशादागच्छता वसतेः प्रवेशे 'नमः क्षमाश्रमणेभ्यः' इत्येवं गुरूणामप्रणामे च प्रणामाकरणे च का आरोपणा प्रायश्चित्तं भवति ? ॥२२९९॥
For Private and Personal Use Only
गाथा
|२२९३-२२९९ निर्ग्रन्थ्या
आचाराङ्गसूत्र विस्मरणम्
(१००५ (B)