________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १००४ (A)
निर्ग्रन्थीसूत्रम्, पूर्वत्र चाध्ययनद्वये पूर्वं निर्ग्रन्थसूत्राण्युक्तानि पश्चान्निर्ग्रन्थीसूत्राणि । अत्र तु केन कारणेन सूत्रविपर्ययः कृतः ?। सूरिराह
जइ वि य पुरिसादेसो, पुव्वं तह वि य विवजओ जुत्तो । जेण समणी उ पगया, पमायबहुला य अथिरा य ॥२२९३॥
यद्यपि च पुरुषोत्तमो धर्मः पूर्वत्र चाध्ययनद्वये पूर्वं पुरुषादेशः सूत्रादेशस्तथाप्यत्र विपर्ययो युक्तः। केन कारणेन? इत्याह-येन कारणेन श्रमण्यः प्रकृताः, तथा प्रायः श्रमण्यः प्रमादबहुला अस्थिराश्च, न तु श्रमणाः, अध्ययनस्य च नाशः प्रायः प्रमादतः, ततः श्रमण्यधिकारादधिकृतसूत्रार्थस्थानत्वात् पूर्वं निर्ग्रन्थीसूत्रमुक्तम्, पश्चात् निर्ग्रन्थसूत्रम् ॥ २२९३॥
गाथा २२९३-२२९९
निर्ग्रन्थ्या आचाराङ्गसूत्र विस्मरणम्
नव-डहर-तरुणीनां व्याख्यानमाह
१००४ (A)
१. नत्रये - खं. सं. मु॥२. पुरुषादेशेस्तथाऽप्येवं विप वा. पु.।।
For Private and Personal Use Only