SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १००३ (A) 'निग्गंथीए नव-डहर-तरुणाए' इत्यादि स्त्रद्विकम्। अस्य व्याख्या- निर्ग्रन्थ्याः नवडहर-तरुण्या वक्ष्यमाणस्वरूपायाः आचारप्रकल्पो नामाध्ययनं परिभ्रष्टं स्यात्, सा च प्रष्टव्या-केन कारणेन आचारप्रकल्पो नामाध्ययनं परिभ्रष्टमभवत, किमाबाधेन प्रमादेन वा? एवं पृष्टा सती सा, यदीति गम्यते, वदेत, नाबाधेन किन्तु प्रमादेन, तर्हि यावज्जीवं तस्यास्तत्प्रत्ययं प्रमादतोऽध्ययननाशनप्रत्ययं नो कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिकात्वं | वा उद्देष्टुं, नापि तस्याः स्वयं धारयितुम्। अथ सा वदेत् आबाधेन नष्टं, न तु प्रमादेन, सा च नष्टमध्ययन संस्थापयामीत्युक्त्वा संस्थापयेत्, एवं 'से' तस्याः कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिकात्वं वा उद्देष्टुम् अनुज्ञातुं स्वयं धारयितुम् । अथ नष्टमध्ययनं संस्थापयिष्यामि इत्युक्त्वा न संस्थापयेत् एवं तर्हि से तस्या न कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिकात्वं उद्देष्टुं वा [अनुज्ञातुं]वा स्वयं धारयितुमिति। एवं निर्ग्रन्थसूत्रमपि भावनीयम् । | सूत्र १५-१६ गाथा २२९१-२२९२ निर्ग्रन्थनिर्ग्रन्थ्योः सूत्रविस्मरणादिः १००३ (A) १. उद्देष्टं वा स्वयं - सं खं. वा. पु.॥ २. इदं तु ध्येयं श्युबींग संस्करणे आगम प्रकाशने च १५ तमं निर्ग्रन्थविषयं सूत्रम्, ततः पश्चात् १६ तमं निर्ग्रन्थीविषयं सूत्रम्, प्रतिलिपिमध्ये तु ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy