________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १००२ (A)
आसीरन् तस्मात् स्फिटिताः। ततः सा ग्लानीभूता अवधावनप्रेक्षिका वा यत्सूत्रेऽभिहितं तद् वदति। अन्यस्याऽऽचार्यस्य परिज्ञानकरणार्थं यथा एषा अर्हा इति तां प्रवर्तिनी स एव अन्य आचार्यः स्थापयति, यदि वा यस्याचार्यस्य समीपे ता अतिष्ठन् स कालगतः ततस्तस्मिन्नाचार्ये कालगते सा ग्लानीभूता अवधावनप्रेक्षिका वा अन्यस्याचार्यस्य परिज्ञानकरणार्थं सूत्राभिहितं वदति, तिगथेराण य असती इति त्रिकं कुल-गण-सङ्घस्तस्य स्थविराः त्रिकस्थविरास्तेषामसति, किमुक्तं भवति? कुलस्थविराणां गणस्थविराणां सङ्घस्थविराणां वा प्रत्यासन्नानामभावे 'एषा अर्हा' इति शेषस्थविरपरिज्ञानकरणाय यत्सूत्रेऽभिहितं तद् वदति, ततो ग्लानाऽवधावनसूत्रे उपपन्ने ॥ २२९० ॥
साहिणम्मि वि थेरे, पवत्तिणी चेव तं परिकहेइ । */ एसा पवत्तिणी भे!, जोग्गा गच्छे बहुमता य ॥२२९१॥
अथवा स्वाधीनेऽपि स्थविरे आचार्ये सा प्रवर्तिनी ग्लायन्ती अवधावनप्रेक्षिका वा तां परिकथयति। यथा भे! भगवन् ! एषा प्रवर्तिनी योग्या प्रवर्तिनीत्वस्याऱ्या, सूत्राऽर्थतदुभयनिष्णातत्वात्, गच्छे बहुमता [च] । तत एवमपि ते सूत्रे उपपन्ने ॥२२९१ ॥
सूत्र १५-१६
गाथा २२९१-२२९२ निर्ग्रन्थनिर्ग्रन्थ्योः सूत्रविस्मरणादिः
१००२ (A)
१. कारणे यत्- सं. ॥
For Private and Personal Use Only