________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् पंचम
उद्देशकः
१००० (B)
I
* च विस्मृतिमुपयाति, ततस्तत्स्मरणार्थमुक्तपरिवाराया अपि गमनम् ३। तथा अशिवादिभिः |
अशिवाऽवमौदर्यादिभिः उक्तसंख्याकपरिवाराया गमनम् ४। तथा षष्ठप्रभृतीन्यङ्गानि संयतीनां | सागरत्ति, स्वयम्भूरमणसागरतुल्यानि, तानि अभिनवगृहीतानि परावर्तनीयानि सन्ति।
अपरावर्तितानि नश्यन्ति, ततस्तेषां परावर्तनाय यथोक्तसंङ्ख्याकपरिवाराया अपि गमनम् | ५। तदेवमधिकृतसूत्रकदम्बकप्रवृत्तौ कारणान्यभिहितानि । अधुना शेषवक्तव्यतामाह-जातेत्ति जातादिरूपः कल्पो वक्तव्यः, स च ऋतुबद्धे सप्तकः समाप्तकल्पः, तदूनोऽसमाप्तकल्पः, वर्षाकाले नवकः समाप्तकल्पः, तदूनोऽसमाप्तकल्पश्च। एकैकोऽपि द्विधा-जातोऽजातश्च, गीतार्थोऽगीतार्थश्चेति। अत्र च भङ्गचतुष्टये प्रथमवर्जेषु शेषेषु त्रिषु भङ्गेषु प्राग्वत् यतना कर्तव्या । तथा ऋतुबद्धे काले निरन्तरं साध्वीप्रेषणतोऽवलोकना कर्तव्या भणिता ॥२२८७ ॥ ___ तदेवमभिहितानि कारणानि, एतैः कारणैरायातस्यास्य सूत्रकदम्बकस्य व्याख्यासा च तथैव। तथा चाह
जह भणिय चउत्थे, पंचमम्मि तह चेविमं तु नाणत्तं । गमणित्थि मीस संबंधि वज्जिए पूजिते लिंगे ॥२२८८॥
गाथा २२८७-२२९० सूत्रकदम्बप्रयोजनादिः
१००० (B)
For Private and Personal Use Only