________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पंचम उद्देशकः
१००० (A)
संयतीनां सप्तकः समाप्तकल्पः, वर्षाकाले नवकः । ततः कथं नाधिकृतसूत्रकदम्बकविरोधः? उच्यते- नैष दोषः, कारणवशतः सूत्रकदम्बकस्य प्रवृत्तेः ॥ २२८६ ।।
तान्येव कारणान्युपदर्शयतिसंघयणे१ वाउलणार, छटे अंगम्मि३, गमणमसिवादी४ । सागर५ जाते जयणा, उउबद्धोलोयणा भणिया ॥२२८७॥
प्रवर्तिन्या गणावच्छेदिन्या वा उत्तमेन संहननेन, उपलक्षणमेतत्, उत्तमया च धृत्या सूत्रमर्थश्च भूयान् गृहीतः १। गच्छे च व्याघातः, स च व्याकुलनावशात्, तत उक्तं द्वितीयं | कारणं व्याकुलना; सा च 'धम्मकहि महिड्डिए' [गा.१७१९] इत्यादिना प्रकारेण यथा प्राक् तृतीयोद्देशकेऽभिहिता तथैवात्रापि भावनीया, पुनरुक्तदोषभयात्तु नाभिधीयते, ततः सूत्रार्थस्मरणनिमित्तमात्मतृतीयायाः प्रवर्तिन्या आत्मचतुर्थायाश्च गणावच्छेदिन्या गमनम् २। तथा षष्ठेऽने ज्ञाताधर्मकथाख्ये बहवः सदृशा गमाः, तथा च तत्रानेकाः कथानककोटयः सदृशपाठाः, विसदृशपाठास्त्वर्द्धचतुर्थाः कथानककोटयः, तदभिनवगृहीतं वर्तते, पुनः पुनरस्मृतं
गाथा २२८७-२२९० सूत्रकदम्बप्रयोजनादिः
१००० (A)
१. सर्वेषु भाष्यादर्शेषु, लाडर्नुसंस्करणे, सर्वासु च टीकाप्रतिषु, 'उउबद्धालोयणा' इत्येव पाठो वर्तते॥
For Private and Personal Use Only