________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
.
श्री व्यवहार
सूत्रम् पंचम उद्देशकः ९९९ (B)
उद्देसम्मि चउत्थे, जा मेरा वण्णिया उ साहूणं । सा चेव पंचमे संजतीण गणणाए णाणत्तं ॥२२८५॥
चतुर्थे उद्देशके या मर्यादा वर्णिता साधूनां सैव पञ्चमे उद्देशे संयतीनां वर्ण्यते, केवलं. गणनायां नानात्वम्, तदपि च सूत्रे साक्षादुक्तमिति प्रतीतम्। अतः प्रथमत एव संयतीसूत्रकदम्बकोपनिपातः ॥ २२८५ ॥ प्रकारान्तरेण सम्बन्धमाहवुत्तमहवा बहुत्तं, पिंडगसुत्ते चउत्थ चरमम्मि । अबहुत्ते पडिसेहं, काउमणुण्णा बहूणं तु ॥२२८६॥
अथवा चतुर्थस्य उद्देशकस्य चरमे पिण्डकसूत्रे बहुत्वमुक्तम्, ततो बहुत्वप्रस्तावात् | पञ्चमे उद्देशके संयतीनाम् अबहुत्वे प्रतिषेधं कृत्वा बहूनामनुज्ञा कृता। ननु बहूनामपि त्रिप्रभृतीनां विहारो न कल्पते, असमाप्तकल्पत्वात्। तथाहि-जघन्यतोऽपि ऋतुबद्धे काले
.
सूत्र १-१४
गाथा २२८५-२२८६ निर्ग्रन्थ्याः सामाचारी
९९९ (B)
For Private and Personal Use Only