________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९९६ (A)
आगासकुच्छिपूरो, उग्गह पडिसेहियम्मि जो कालो । न हु होति उग्गहो सो, कालदुर्ग वा अणुण्णातो ॥ २२८२ ॥
यथा कोऽपि पुरुषो बुभुक्षया पीडितः सन् चिन्तयति- पूरयाम्युदरमाकाशेन येन मे | बुभुक्षाऽपगच्छति, स यथा आकाशे कुक्षिपूरः प्राप्तो न भवति, अरूपित्वाद् आकाशस्य। एवमवग्रहे प्रतिषेधिते यः कालो वर्तते तस्मिन्नुत्पादितः सः अवग्रहोऽवग्रहो न भवति प्रतिषिद्धकालाचीर्णत्वात् । अथवा प्रकारान्तरेण कालद्विकेऽनुज्ञातोऽवग्रहः ॥२२८२॥
कथम्? इति चेद्, अत आहगिम्हाण चरिम मासो, जहिं कतो तत्थ जति पुणो वासं । ठायंति अन्नखेत्तासतीए दोसुंपि तो लाभो ॥ २२८३ ॥
यत्र ग्रीष्माणां उष्णकालस्य चरमः आषाढनामा मासः कृतस्तत्र यदि पुनः अन्यक्षेत्रासति तथाविधान्यक्षेत्राभावतो वर्ष वर्षाकाले तिष्ठन्ति । ततः द्वयोरपि कालयोः ग्रीष्मचरममासे वर्षाकाले चेत्यर्थः लाभो भवति, एवं कारणवशतो द्वयोरपि कालयोः सचित्तादिलाभोऽनुज्ञात इत्यर्थः ॥२२८३ ॥
गाथा २२८२-२२८४
स्थिरवासे कृतसंलेखादिद्वाराणि
९९६ (A)
For Private and Personal Use Only