________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
X
सूत्रम्
चतुर्थ उद्देशकः ९९६ (B)
एमेव य समतीते, वासे तिण्णि दसगा उ उक्कोसो । वासनिमित्तठियाणं, उग्गहो छमासो उक्कोसा ॥ २२८४ ॥
एवमेव अनेनैव प्रकारेण वर्षे वर्षाकाले समतीते यदि मेघो वर्षति ततोऽन्यद्दिवसदशकं |* स्थीयते, तस्मिन्नपि समाप्तिमुपगते यदि पुनः वर्षति ततो द्वितीयं दिवसदशकं स्थातव्यम्, तस्मिन्नप्यतीते पुनर्वृष्टौ तृतीयमपि दिवसदशकं तिष्ठति। एवं उत्कर्षतस्त्रीणि दिवसदशकानि वर्षानिमित्त स्थितानामुत्कृष्टोऽवग्रहः षण्मासः षण्मासप्रमाणो भवति । तद्यथा- एको ग्रीष्मचर ममासः, चत्वारो वर्षाकालमासाः, षष्ठो मार्गशीर्षो दिवसदशकत्रयलक्षण इति ॥२२८४॥
N
॥ इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां चतुर्थ उद्देशकः समाप्तः॥
॥ चतुर्थोद्देशके ग्रंथाग्रं ॥ ४०४०॥
गाथा २२८२-२२८४
स्थिरवासे कृतसंलेखादिद्वाराणि
९९६ (B)
४४४४
For Private and Personal Use Only