________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९९५ (B)
प्रतिपन्नसंलेखनाकस्तत्प्रतिचारकाश्च तन्निश्रा एकत्रस्थाने वसन्ति। तरुणप्रतिकर्म नाम रोगविमुक्तस्य सतस्तरुणस्य बलविवृद्धिकरणं, तन्निमित्तं मासातीतं वर्षातीतं च कालं तिष्ठन्ति ॥ २२८०॥
वुड्डावासातीते, कालातीते न उग्गहो तिविहो । आलंबणे विसुद्धे, उग्गहो तक्कजवोच्छेओ ॥ २२८१॥
वृद्धवासातीते मरणेन प्रतिभग्नतया वा अरोगीभवनेन वा, सूत्रार्थग्रहणेन वा झरणेन वा वृद्धवासातीते कालेऽतीते ऋतुबद्धे काले . मासाधिके काले वर्षासु चतुर्मासाधिके अवग्रहस्त्रिविधोऽपि न भवति, सचित्तस्याचित्तस्य मिश्रस्य च ग्रहणं तत्र न कल्पते इति भावः । कुत? इत्याह-आलम्बने वृद्धवासलक्षणे विशुद्धे परिसमाप्ते यस्तत्कार्यभूतोऽवग्रहस्तस्यापि व्यवच्छेदो भवति, कारणाभावे कार्यस्याभावात् ॥ २२८१ ॥
गाथा २२७६-२२८१ स्थिरवासे कृतसंलेखादिद्वाराणि
यस्तु मन्यते कालातीतेऽपि नावग्रहस्य व्यवच्छेदस्तं प्रति दृष्टान्तमाह
९९५ (B)
For Private and Personal Use Only