________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् | चतुर्थ उद्देशकः ९९४ (B)
आर्यिकाणां पुनर्वद्धवासमावसन्तीनां पञ्चकं क्षेत्रपञ्चकं भवति। तद्यथा- सबाह्ये क्षेत्रे द्वौ भागौ बहिः, द्वौ भागावन्तः, एकैकस्मिंश्च क्षेत्रविभागे द्वौ द्वौ मासाववस्थानं, पञ्चमो वर्षारात्रयोग्यः क्षेत्रविभागः। शेषाणां साधूनां पुनः कारणवशत एकत्र स्थितानां नवकग्रहणं नवभिर्भागैः क्षेत्रकरणम् ॥२२७७ ॥
इह ये जनाबलपरिक्षीणा: स्थविरास्तेषां समीपे आत्मपरनिष्पत्तिमिच्छतां यादृशाः सहाया दातव्याः तादृशानभिधित्सुराह
जे गेण्हिउं धारयिउं च जोग्गा, थेराण ते देंति सहायए उ । गेण्हंति ते ठाणट्ठिया सुहेणं, किच्चं च थेराण करेंति सव्वं ॥ २२७८ ॥
सूत्रमर्थं च ये गृहीतुं धारयितुं च योग्यास्तान्सहायकान् स्थविराणां ददति । ततस्ते स्थानस्थिताः कालिकश्रुतं दृष्टिवादं वा सुखेन गृह्णन्ति, कृत्यं च सर्वं स्थविराणां कुर्वन्ति। एवं तेषां ग्रहणे झरणे च पूर्वोक्त उत्कृष्टः काल एकत्रावस्थाने भवति ॥ २२७८ ॥
गतं तरुणनिष्पत्तिद्वारम्। अधुना क्षेत्रलाभद्वारमाह
गाथा २२७६-२२८१ स्थिरवासे कृतसंलेखादिद्वाराणि
९९४ (B)
For Private and Personal Use Only