________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०० (B)
तामेव “जयणा' [गा-१७१७] इति सूचागाथोक्तं पदं व्याख्यानयन् प्राहतेसिं जयणा इणमो, भिक्खग्गह निक्खमप्पवेसे य । अणुणवणं पि य समगं, बेंति य गिहे दिज ओहाणं ॥ १७२८ ॥ दारं ७॥
तेषामाद्यवर्जानां त्रयाणां भङ्गानामियं यतना- समकमेककालं भिक्षाग्रहणाय, उपलक्षणमेतत, विचाराय च निष्क्रमः, समकमेव च प्रवेशः, समकमेव चावग्रहस्यानुज्ञापनम्। इयमत्र भावना-भिक्षाग्रहणाय विचाराय वा सर्वमुपकरणमादाय समकमेव निष्क्रामतः, समकमेव च प्रविशतः, तथा वसतिं प्रथमं याचमानौ समकमेव शय्यातरमनुज्ञापयतः । तथा निर्गच्छन्तौ समकमेव शय्यातरसमीपमुपगम्य ब्रुवाते- यथा गृहे गृहस्य प्रतिश्रयस्य उपधानं स्थगनं दद्या इति ७ ॥ १७२८॥
'उउबद्धे' [गा.१७१७] इति पदव्याख्यानार्थमाह
गाथा |१७२७-१७३१
चत्वारः कल्पाः
८०० (B)
१. "तरमुपगम्य- वा. मो. पु. ता.॥
For Private and Personal Use Only