________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
८०० (AN
जातकल्पो नाम यो गीतार्थः, सूत्रार्थतदुभयकुशल:१ अगीतः अगीतार्थः खलु भवेदजातोऽजातकल्पः । समाप्तकल्पो नाम परिपूर्णसहायः, स च जघन्येन पञ्चकं पञ्चपरिमाणः ऋतुबद्धे काले, वर्षाकाले सप्तपरिमाणः । तदूनकस्तस्मात् पञ्चकात्सप्तकाद्वा हीनतरः कल्पो भवत्यसमाप्तः, अपरिपूर्णसहायत्वात्। अत्र भङ्गचतुष्टयम् ॥ १७२६ ॥
तदेवाहअहवा जातो समत्तो१ जातो चेव य तहेव असमत्तो २। अजातो य समत्तो३, अजातो चेव असमत्तो ४ ॥ १७२७ ॥ दारं ६॥
अथवेति प्रकारान्तरे। पूर्वं कल्पचतुष्टयं सामान्यतः प्ररूपितम्, इदानीं संयोगतः प्ररूप्यते- * जातकल्पोऽपि समाप्तकल्पोऽपीत्येको भङ्गः१ जातकल्पोऽसमाप्तकल्प इति द्वितीय:२ अजातकल्पः समाप्तकल्प इति तृतीयः३ अजातकल्पोऽसमाप्तकल्प इति चतुर्थः ४। अत्र प्रथमो भङ्गः शुद्धः, शेषेषु त्रिषु भङ्गेषु यतना कर्तव्या ६॥ १७२७ ॥ १. असमत्तो जातो या ३ असमेत्ता चेव उ अजातो ४ - सर्वासु टीकाप्रतिषु खंभा. जेभा। केवलं वाभा. आदर्श लाडनूसंस्करणे च शुद्धपाठ उपलभ्यते ६॥
गाथा १७२७-१७३१
चत्वारः
कल्पाः
८०० (A)
For Private and Personal Use Only