________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९९३ (B)
बारसवासे गहिए, उ कालियं झरति वासमेगं तु । सोलस उ दिट्ठिवाए, गहणं झरणं दस दुवे य ॥ २२७४ ॥
द्वादश वर्षाणि यावत् यत्परिपूर्णं गृहीतं कालिकश्रुतं तत् वर्षमेकं झरति एकेन | वर्षेण परावर्त्यते। ग्रहणमधिकृत्य दृष्टिवादे षोडश वर्षाणि लगन्ति, झरणमधिकृत्य पुनः दश द्वे च द्वादश वर्षाणीत्यर्थः। ततो ग्रहणं झरणं चाधिकृत्य तावन्तं कालमेकत्रावतिष्ठते ॥ २२७४॥
अत्र पर आह
गाथा झरए य कालियसुए, पुव्वगए य जइ एत्तिओ कालो ।
२२७०-२२७५
ग्लानादिआयारपकप्पनामे, कालच्छेदो उ कयरेसिं? ॥ २२७५ ॥
द्वाराणि कालिकश्रुते च पूर्वगते च श्रुते झरके चशब्दात् ग्राहके च यदि एतावान्कालो ||
९९३ (B) लगति तर्हि आचारप्रकल्पनाम्नि निशीथेऽध्ययने योऽसौ कालच्छेदः कृतः, यथा ऋतुबद्ध काले मासमासितव्यं, वर्षासु चतुरो मासानिति, स कतरेषां द्रष्टव्यः ? ॥ २२७५ ॥
For Private and Personal Use Only