________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः
९९३ (A)
प्रतिपन्न उत्तमार्थोऽनशनं येन स प्रतिपन्नोत्तमार्थः । स वा तस्य वा प्रतिचारकास्तन्निश्रा उत्तमार्थप्रतिपन्ननिश्रा मासातीतं वर्षाकालातीतं वा तिष्ठन्ति। गतमुत्तमार्थद्वारम् ॥ अधुना तरुणनिष्पत्तिद्वारमाह-आत्मनः परस्य च सूत्रार्थतदुभयेन निष्पत्तिं कुर्वन्वा वृद्धवासेन तिष्ठेत् ॥२२७२॥ कियन्तं कालम्? अत आहसंवच्छरं च झरए, बारस वासा य कालियसुयम्मि। सोलस य दिट्ठिवाए, एसो उक्कोसतो कालो ॥ २२७३ ॥
संवत्सरं यावत् कालिकश्रुतं झरति परावर्तयति। ग्रहणे पुनः कालिकश्रुते कालिकश्रुतस्य लगन्ति द्वादशवर्षाणि। दृष्टिवादे ग्रहणमधिकृत्य षोडश वर्षाणि लगन्ति। चशब्दाद् झरणमधिकृत्य द्वादश वर्षाणि। एष एतावान् आत्मपरनिष्पत्तिमधिकृत्यैकत्रावस्थानस्य उत्कृष्टः कालः ॥२२७३ ॥
गाथा २२७०-२२७५ ग्लानादिद्वाराणि
९९३ (A)
एतदेव सुव्यक्तमाह
For Private and Personal Use Only