________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गतमसहायताद्वारम्। सम्प्रति दौर्बल्यद्वारमाह
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९९२ (B)
ओमादी तवसा वा, अचएंतो दुब्बलो वि एमेव । संताऽसंतसतीए बलकरदव्वे य जयणा उ ॥ २२७१ ॥ दारं ४।।
अवमं दुर्भिक्षम्, आदिशब्दात् नगररोधादिपरिग्रहः। तत्रावमौदर्येण दुर्बलीभूतो न शक्नोति विहर्तुम्, तपसा वा क्षामीभूतः । कथमित्याह संतासंतसतीए सदभावेनासदभावेन वा । तत्र सदभावो लभ्यते, यथातृप्ति भक्ष्यं केवलमन्तं प्रान्तं, तेन क्षामीभूतः । असदभावो यथातृप्ति भक्ष्यस्यैवाभावः। स तथाक्षामीमूतो विहर्तुमशक्नुवन्, एवमेव क्षीणजङ्घाबलगतेन प्रकारेण तिष्ठति, केवलं तेन बलकरद्रव्ये यतना कर्तव्या । प्रथमत उद्गमादिशुद्धं तदुत्पादनीयं, तदभावे पञ्चकपरिहाण्यापि। ततो बलिकीभूतो विहरति ॥ २२७१ ।।
गतं दौर्बल्यद्वारम्। साम्प्रतमुत्तमार्थद्वारमाहपडिवण्णउत्तमढे, पडियरगा वा वसंति तन्निस्सा । आय-परे निप्फत्ती, कुणमाणो वा वि अच्छेज्जा ॥ २२७२ ॥
गाथा २२७०-२२७५ ग्लानादिद्वाराणि
९९२ (B)
For Private and Personal Use Only