SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः | वा वृद्धवासिनो ददति, वृद्धवासिनं मुक्त्वा यद्यन्यस्य शेषस्य समर्पयन्ति ततः शेषे शेषस्य समर्पणे तेषां प्रायश्चित्तमापद्यते चतुर्लघु। इदृशस्य फलकस्यालाभे यदन्यद् अपरिशाटिफलकं तदप्रतिहार्यं मृगयन्ते । तदलाभे प्रातिहार्यमपि । एवं क्षेत्र-काल-वसतिसंस्तारकयतना कर्तव्या, एकतरयतनाविभागासम्भवे त्रिविभागा यतना कर्तव्या, तस्या अप्यसम्भवे द्विविभागा, तस्या अप्यसम्भवे एकविभागापीति ॥२२६९॥ ९९२ (A) गतं जनाबलं परिक्षीणमिति द्वारम्। इदानीं ग्लानद्वारमाह पडियरति गिलाणं वा, सयं गिलाणो व तत्थ वि तहेव ॥ दारं २। भावियकुलेसु अच्छति, असहाए रीयतो दोसा ॥ २२७० ॥ दारं ३। प्रतिचरति ग्लानं, यदि वा स्वयं ग्लानो जातस्ततस्तस्य वृद्धवासो भवति, तत्रापि तथैव क्षेत्र-काल-वसति-संस्तारकयतना द्रष्टव्या । गतं ग्लानद्वारम्। असहायताद्वारमाहभावितकुलेषु संविग्नभावितेषु कुलेष्वसहायः सहायहीनस्तिष्ठति, यतस्तस्य रीयमाणस्य विहरतो बहवो दोषाः स्त्र्यादिभ्यः ॥ २२७० ॥ गाथा २२७०-२२७५ ग्लानादिद्वाराणि ९९२ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy