________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९९१ (A)
अप्रतिहार्यस्यैव संस्तारकस्यानयनाय परग्रामे व्रजन्ति। तत्र च आरतोऽलभ्यमाने द्वात्रिंशति योजनान्यपि यावत् व्रजन्ति ॥२२६६॥
एतदेव सुव्यक्तमाहवसहि निवेसण साही, दूराणयणम्मि जो उ पाउग्गो । असतीए पाडिहारिय, मंगलकरणम्मि नीणंति ॥ २२६७ ॥
वसतौ यथासंस्तृतः स्थिरमृदुकः संस्तारको मृगणीयस्तदभावे निवेशने अप्रतिहार्यो गवेषणीयस्तत्राप्यलाभे साहीत्ति वाटके। तत्राप्यलाभे यः प्रायोग्योऽप्रतिहार्यः संस्तारक: तस्य दूरादपि द्वात्रिंशद्योजनप्रमाणादानयनं कर्तव्यम्। एवमपि तथारूपस्याप्रातिहार्यस्य संस्तारकस्य असति अलाभे प्रातिहार्यं मङ्गलकरणे मंगलकरणनिमित्तं ध्रियमाणं नीणंति आनयन्ति ॥२२६७॥ एतदेव स्पष्टतरमाह
ओगालीफलगं पुण, मंगलबुद्धीए सारविजंतं । पणरवि मंगलदिवसे, अच्चियमहियं पवेसेंति ॥ २२६८ ॥
गाथा २२६४-२२६९ स्थिरवासे वसतियतना संस्तारकयतना
९९१ (A)
For Private and Personal Use Only