________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९९० (B)
कोट्टिमघरे वसंतो, आलित्तम्मि वि न डज्झती तेण । सेलादीणं गहणं, रक्खति य निवाय वसही उ ॥ २२६५ ॥
कोट्टिमम् उपरिबद्धभूमिकं गृहं, तच्च शैलादिमयं तस्मिन् वसन् आदीप्तेऽपि प्रदीपनकेऽपि न दह्यते, तत्राग्नेः प्रवेशासंभवात्। तेन कारणेन शैलादीनां ग्रहणम्। तथा रक्षति निवाता वसतिः शीतादिकमिति वा शैलादिकग्रहणमकारि ॥ २२६५ ॥
उक्ता वसतियतना। सम्प्रति संस्तारकयतनामाहथिरमउयस्स असती, अप्पडिहारिस्स चेव वच्चंति । बत्तीसजोयणाणि वि, आरेण अलब्भमाणम्मि ॥ २२६६ ॥
यो वसतौ यथासंस्तृतश्चम्पकपट्टोऽन्यो वा स्थिरमृदुकसंस्तारक: अप्रतिहार्य: स गृहीतव्यः । तस्याभावे वसतेरेव सम्बन्धि यन्निवेशनं गृहं तस्मादानेतव्यः । तस्याप्यलाभे वाटकादानेयः। तत्राप्यलाभे वाटकाद्बहिष्ठोऽप्यानेतव्यः । तत्राप्यसति स्वग्रामे दूरतोऽपि, तत्राप्यलाभे परग्रामादपि अर्धक्रोशात्। तथाप्यलाभे क्रोशादपि। एवमर्धकोशवृद्ध्या तावद् गन्तव्यं यावदुत्कर्षतो द्वात्रिंशतो योजनेभ्योऽपि। तथा चाह- स्थिरमृदुकस्याप्रतिहार्यस्य संस्तारकस्य वसत्यादौ अलाभे
गाथा २२६४-२२६९ स्थिरवासे वसतियतना संस्तारकयतना
| ९९० (B)
For Private and Personal Use Only