________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.y
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९९० (A)
सेलियकाणेघरे, पक्के आमे य पिंड-दारुघरे । कड़िते कडग-तणघरे, वोच्चत्थे होति चउगुरुगा ॥ २२६४ ॥
शैलिकं नाम पाषाणेष्टिकाभिः कृतम्। काणेट्टत्ति लोहमय्य इष्टकास्ताभिः कृतं गृहं काणेष्टकागृहम्। "पक्के" इति पक्वेष्टिकागृहम् आमे यत्ति, आमाः अपक्वाः, ताभिरिष्टकाभिः कृतं गृहम्। पिंड-दारुघरेत्ति गृहशब्दः प्रत्येकमभिसम्बध्यते, पिण्डगृहं चिक्खल्लपिण्डैनिष्पादितं, दारुगृहं करपत्रस्फाटितदारुफलकमयं गृहम् । कडितत्ति कण्टिभिः कृतं गृहं कण्टित [गृहम्] । कडगत्ति वंशदलनिर्मापितकटात्मकं गृहं कटकगृहं, तृणगृहं दर्भादितृणमयम्। एतेषां सति लाभे प्रथमं गृहीतव्यम्, तदभावे द्वितीयम्, एवं शेषाण्यपि भावनीयानि। यदि पुनः सति विपर्यस्तं कुर्यात् तदा विपर्यस्ते विपर्यासे प्रायश्चित्तं भवति चत्वारो गुरुकाः ॥२२६४॥
तत्राद्येषु चतुर्पु गृहेषु यो गुणो भवति तमभिधित्सुराह
गाथा २२६४-२२६९ स्थिरवासे वसतियतना संस्तारकयतना
९९० (A)
१. पिण्डकैनि वा. पु. ॥ २. कण्टकैराच्छादितं सम्भाव्यते ॥
For Private and Personal Use Only