________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९८९ (A)
पूर्वमोघनिर्युक्तौ कल्पाध्ययने वा या वसतौ भिक्षायां विचारादौ च यतना भणिता महता प्रबन्धेन, सैव चेह वृद्धवासे वसतां भवति ज्ञातव्या॥ २२६० ॥
उक्ता क्षेत्रयतना ॥ कालयतनामाहधीरा कालच्छेयं, करेंति अपरक्कमा तहिं थेरा । कालं वाऽविवरीयं, करेंति तिविहा तहिं जयणा ॥ २२६१॥
धीरा बुद्धिमन्तः संयमकरणोद्यता अप्रमादिनोऽपराक्रमा जवाबलपरिहीणाः स्थविरास्तत्र वृद्धवासे कालच्छेदं कुर्वन्ति ऋतुबद्धे काले अष्टसु मासेषु प्रतिमासमन्यान्यवसतिभिक्षादिग्रहणतः, वर्षासु चतुरो मासान् एकवसत्येकभागभिक्षादिग्रहणतः, तदभावे पूर्वोक्तयतनया कालत्रुटिं कुर्वन्ति। तथा कालमविपरीतं च कुर्वन्ति, ऋतुबद्धे काले वर्षाकालकल्पं वर्षासु ऋतुबद्धकालकल्पं न कुर्वन्तीति भावः । तथा त्रिविधा यतना तत्र ऋतबद्धे काले कर्तव्या ॥२२६१॥
साम्प्रतमविपरीतमेव कालं व्याख्यानयति
गाथा २२५८-२२६३ कालयतना वृद्धवासे
९८९ (A)
For Private and Personal Use Only