________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशक:
९८८ (A/
तस्य वृद्धस्य योग्ये आहारे पानके उपाश्रये निवाते छविस्त्राणं वस्त्रं तस्मिन्मृदुके च एषणीयानि तदलाभे पञ्चकपरिहाण्याप्युत्पादनीयानि ॥२२५७॥ तदेवमुक्ता चतुर्विधा यतना। सम्प्रति प्रकारान्तरेण चतुर्विधामेव यतनामाहवुड्डावासे जयणा, खेत्ते१ काले य२ वसहि३ संथारे४ । खेत्तम्मि नवगमादी, परिहाणी एक्कहिं वसइ ॥ २२५८ ॥ वृद्धावासे यतना चतुर्विधा। तद्यथा-क्षेत्रे१ काले२ वसतौ३ संस्तारे च ४। तत्र क्षेत्रे नवकादि विभाग नवकमादिं कृत्वा एकै कविभागे परिहाण्या तावद्वस्तव्यं यावदेकस्मिन्नपि भागे चिरकालं वसति। इयमत्र भावना-क्षेत्रं नव भागान्करोति, तत्रैकस्मिन् भागे वसतिं गृहीत्वा तस्मिन्नेव भागे संस्तारकभिक्षादीनि निर्दिशति। शेषानष्टौ भागान्परिहरति। तांश्च तावत्परिहरति यावत्परिपूर्णो मार्गशीर्षः। ततो द्वितीये पोषमासे द्वितीये भागे वसत्यादि गृह्णाति, शेषानष्टौ भागान्परिहरति, एवं तृतीयादिषु विभागेषु माघादय आषाढान्ता मासा नेतव्याः। वर्षाकाले चतुरो मासान् नवमे भागे वसत्यादि गृह्णाति, शेषानष्टौ भागान्परिहरति । तथाविधभिक्षाद्यलाभे नववसतयोऽष्टौ भिक्षादियोग्या भागाः परिकल्पनीयाः १, वसत्यलाभे अष्टौ भागा वसतियोग्याः, नव भागा भिक्षादियोग्याः २, वसत्यलाभे भिक्षाद्य
गाथा २२५८-२२६३ कालयतना वृद्धवासे
९८८ (A)
For Private and Personal Use Only