SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९८७ (A) भवति, एवं वारेण वारेणाऽऽगमने तैर्नित्यवसतिदोषः परिहृतो भवति । अथ सदभावेन असदभावेन वाष्टाविंशतेरूनो गच्छो वर्तते यावदेकविंशतिकः, तस्य त्रिभागे सप्त, तेषां द्विमासान्तरितो वारको भवति, तथैव सदभावेन असदभावेन वा यदि चतुर्दशको गच्छो भवति तदा तेषामर्द्धन सप्त, तेषामेकमासान्तरितः पुनर्वारकः । एवं प्रतिमासमन्यान्यवसत्यभावे वृद्धस्यैवैकस्य वृद्धवासो भवति, न तु सहायानाम्। अथ सदभावेनासदभावेन वा चतुर्दश गच्छे न सन्ति तदा ते एव सप्तजनाः चिरकालमपि तिष्ठन्तो यतनया तं वृद्धं परिपालयन्ति ॥ २२५४॥ अमुमेवार्थमभिधित्सुराहचत्तारि सत्तगा तिण्णि दोण्णि एक्को व होज असतीए । संतासती अगीया, ऊणा उ असंतओ असती ॥ २२५५ ॥ चत्वारः सप्तका वारेण वारेण वृद्धपरिपालनाय प्रेषणीयाः। असती[ए सदभावेना] सदभावेन चाष्टाविंशतेरभावे त्रयः सप्तका वारकेण प्रेष्याः । तावतामप्यभावे द्वौ सप्तकौ वारकेण प्रेष्यौ। तयोरप्यभावे एकः सप्तकः सदावस्थायी तत्परिपालको भवेत्। सदभावेनासदभावेन वा असतीत्युक्तं तत्र सदभावं[असदभावं] च व्याख्यानयति-संतासती इत्यादि, सन्तासती गाथा २२५३-२२५७ स्थविरस्य शुश्रूषा विधिः | | ९८७ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy