SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९८६ (B) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www.kobatirth.org गच्छस्य परिमाणं जघन्यतोऽष्टाविंशतिः, उत्कर्षत शताग्रशः शतादारभ्य यावद् द्वात्रिंशत्सहस्राणि । तत्राष्टाविंशतिकस्य गच्छस्य चतुभार्गः सप्त, एतावन्तः सहायास्तस्य दातव्याः । यैरुपस्थाना उप सामीप्येन सर्वदावस्थानलक्षणेन तिष्ठन्त्यस्यामिति उपस्थाना शय्या अजादिपाठात् प्रत्ययः नित्यवसतिर्न जायते । १. तिष्ठन्ति तस्या० Acharya Shri Kailassagarsuri Gyanmandir इयमत्र भावना - प्रतिमासम् अन्यान्या वसतिर्न लभ्यते, स चालाभो द्विधा-सदलाभोऽसदलाभश्च । तत्र सदलाभो नाम- लभ्यन्ते वसतयः किन्त्वकल्पिकाः । असदलाभो मूलत एव न लभ्यन्ते वसतयः । एवं सदलाभेनासदलाभेन वा प्रतिमासमन्यान्यवसत्यलाभे एकस्यामेव वसतौ जङ्घाबलपरिक्षीणो वसति । तस्य च सहाया अष्टाविंशतिकस्य गच्छस्य चतुर्भागमात्राः सप्त प्रदत्ताः, ते ऋतुबद्धे काले एकं मासं स्थित्वा गच्छं व्रजन्ति । अन्ये सप्त सहाया स्थविरस्यागच्छन्ति, तेऽपि द्वितीये मासे परिपूर्णे गताः । ततोऽन्ये सप्त समागच्छन्ति तेऽपि तृतीये मासे परिपूर्णे गताः । ततोऽन्ये सप्त सहाया आयान्ति तेऽपि चतुर्थं मासं स्थित्वा गच्छं व्रजन्ति, ये प्रथमे मासे सप्ताऽऽगच्छन् ते भूयः समागच्छन्ति । एवं त्रिमासान्तरितः सर्वेषां पुनर्वारको For Private and Personal Use Only **** गाथा २२५३-२२५७ स्थविरस्य शुश्रूषा विधि: ९८६ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy