________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देश:
९८५ (B)
܀܀܀܀
www.kobatirth.org
अण्णो जस्स न जायइ, दोसो देहस्स जाव मज्झहो ।
सो विहरइ सेसो, पुण अच्छति मा दोण्ह वि किलेसो ॥ २२५१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रातरारभ्य यावन्मध्याह्नस्तावद् यस्य गच्छतो देहस्यान्यो दोषो भ्रम्यादिलक्षणो नोपजायते स विहरति । शेषः पुनस्तिष्ठति कस्माद् ? इत्याह- मा द्वयानामपि तस्य सहायानां च क्लेशो भूयादिति हेतोः ॥ २२५१ ॥
अन्यो दोषो न जायते' इत्युक्तं । तत्रान्यं दोषमाह -
भो वा पित्तमुच्छा वा, उद्धसासो व खुब्भति ।
गतिविरए वि संतम्मि, इच्चादिसु न रीयति ॥ २२५२ ॥
यस्मिन् गतिविरतेऽपि सति भ्रमः आकस्मिकी भ्रमिः, पित्तनिमित्ता मूर्च्छा पित्तमूर्च्छा, ऊर्ध्वश्वासो वा क्षुभ्यति चलति । आदिशब्दात् शिरोव्यथादिपरिग्रहः, न रीयते न गच्छति, न विहारक्रमं करोतीति भावः ॥ २२५२ ॥
१. दोषः पञ्चम्यादि० वा. पु. ॥
For Private and Personal Use Only
गाथा |२२४६-२२५२ स्थविरस्वरूपम् अनुकम्पा च
९८५ (B)