________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९८५ (A)
܀܀܀܀
www.kobatirth.org
कालेनोच्चालनीयो यस्मिन्नुष्णादिभिर्न परिताप्यते । एषाऽनुकम्पा त्रिषु गव्यूत-द्वयर्धगव्यूतद्विगव्यूतेषु भवति ज्ञातव्या ॥२२४८ ॥
अथवा त्रिष्वनुकम्पेति प्रकारान्तरेण व्याख्यानयति
अहवा आहारुवही, सेज्जा अणुकंप एस तिविहा उ । पढमालिदाण-विस्सामणादि उवही य वोढव्व ॥ २२४९ ॥
साम्प्रतमपराक्रममाह
अथवा आहारे उपधौ शय्यायां च या अनुकम्पा एषा त्रिविधाऽनुकम्पा भवति । तत्राहारे प्रथमालिकादानं १, शय्यायां गतस्य विश्रामणादि२ मार्गे चोपधिर्वोढव्यः ३ ॥२२४९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
खेत्तेण अद्धगाउ य कालेण य जाव भिक्खवेला उ । खेत्तेण य कालेण य जाणसु, अपरक्कमं थेरं ॥ २२५० ॥
यः कालतः सूरोद्गमादारभ्य यावद् भिक्षावेला तावद् य: क्षेत्रतोऽर्धगव्यूतं याति तं क्षेत्रतः कालतश्च जानीतापराक्रमं स्थविरम् ॥२२५० ॥
For Private and Personal Use Only
गाथा |२२४६-२२५२ स्थविर
स्वरूपम् अनुकम्पा च
९८५ (A)