________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९८४ (B)
IN
जो गाउयं समत्थो, सूरादारब्भ भिक्खवेला । विहरउ एसो सपरक्कमो उ नो विहरे तेण परं ॥ २२४७ ॥
यः सूरात्सूरोद्गमादारभ्य यावद्भिक्षावेला भवति तावत् गव्यूतं गन्तुं समर्थ एषोऽपि | सपराक्रम इति विहरतु । ततः परं गव्यूतमपि तावता कालेन गन्तुमशक्नुवन् नो विहरेत्। इदमुक्तं [भवति] त्रिष्वपि गव्यूतद्वयादिष्वनुकम्पा कर्तव्येति ॥ २२४७॥
तत्र तामेवानुकम्पामाहवीसामण उवगरणे, भत्ते पाणेऽवलंबणे चेव । गाउ य दिवड्ड दोसुं, अणुकंपेसा तिसुं होइ ॥ २२४८ ॥
अन्तरान्तरा यत्र विश्रामणार्थं तिष्ठति तत्र विश्राम्यते। तथा उपकरणे उपकरणविषयेऽनुकम्पा कर्तव्या, यत्तस्योपकरणं तदन्ये वहन्ति, यैश्च तस्य शीतं न भवति तादृशानि वस्त्राणि देयानि। तथा भक्तं पानं च यदि तत्प्रायोग्यं शुद्धं न लभ्यते तदा पञ्चकपरिहान्या तदुत्पादनीयम्। यत्र च विषमं तत्र बाहुप्रदानादिनाऽवलम्बनं कर्तव्यम् । चशब्दात्स तेन
गाथा २२४६-२२५२
स्थविरस्वरूपम् अनुकम्पा च
| ९८४ (B)
For Private and Personal Use Only