________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
।
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९८२ (B)
एनामेव गाथां व्याख्यानयतिसुत्तागमो बार समा, चरियं देसाण दरिसणं तु कयं ।। उवकरण-देह-इंदिय, तिविहं पुण लाघवं होइ ॥ २२४० ॥
विद्या नाम सूत्रागमः । स च द्वादश समा वर्षाणि यावत् कृतः, उपलक्षणमेतद्, अर्थागमोऽपि विद्या, सोऽपि द्वादशवर्षाणि कृतः । तथा चरितं नाम देशानां दर्शनं, तदपि द्वादश वर्षाणि यावत् कृतं । लाघवं पुनस्त्रिविधं भवति, तद्यथा -उपकरणलाघवं, देहलाघवं, इन्द्रियलाघवं च । तत्रोपकरणलाघवं नाम यदतिरिक्तमुपकरणं न गृह्णाति, गृहीतं वाऽरक्तद्विष्टः सन् सूत्रोक्तविधिना परिभुङ्क्ते। शरीरलाघवं-यन्नातिकृशो नातिस्थूलः शरीरेण। इन्द्रियलाघवं यदिन्द्रियाणि तस्य वशे वर्तन्ते ॥ २२४० ॥
चउत्थ-छट्ठादि तवो कतो ऊ, अव्वोच्छित्तीए होइ सिद्धिपहो ।
सुत्तविहीए संजमो, वुड्डो अह दीहमाउं च ॥ २२४१ ॥ १. अत्र २२४१ गाथायाश्चतुर्थचरणे छन्दोभङ्गः इति ला. टिप्पन पृ.२१५ टि.१७॥
गाथा २३३९-२३४५ वृद्धवासस्वरूपम्
९८२ (B)
For Private and Personal Use Only