________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९८२ (A
कया विजा चरियं लाघवेणं, तत्तो तवो देसितो सिद्धिमग्गो ।। अहाविहिं संजम पालइत्ता, दीहाउणो वुड्डवासस्स कालो ॥२२३९॥ विद्या नाम सूत्रार्थतभयग्रहणं तत्कतं। तद्यथा-द्वादशवर्षाणि सूत्रग्रहणं कृतम, द्वादश वर्षाण्यर्थग्रहणम्, तदनन्तरं चरितं देशदर्शनाय द्वादशवर्षाणि भ्रमणं कृतम्। तथा सदैव लाघवेन उपकरणलाघवादिना वर्तितम्। तथा तप्तं चतुर्थषष्ठादिरूपं नानाप्रकारं तपः। तथा : अनिगृहितबलवीर्येण देशदर्शनानन्तरं द्वादशावर्षाण्यव्यवच्छित्तिं कुर्वता ज्ञानादिक: सिद्धिमार्गो देशितः। सदैव च यथाविधि श्रुतोपदेशेन सप्तदशविध: संयमः परिपालितः । तं सकलकालं संयम यथाविधि पालयित्वा द्वादशावर्षाण्यव्यवच्छित्तिं कुर्वता यदि शिष्यो निष्पादितस्ततस्तं गणे स्थापयित्वा स्वयमभ्युद्यतविहारेण विहर्तव्यमिति भगवतामर्हतामुपदेशः । अथ न कोऽपि शिष्यो निष्पन्नस्तर्हि गच्छ: परिवर्द्धनीयः, तथा यद्यपि च निष्पन्नः कोऽपि शिष्यस्तथापि कश्चिदसमर्थो भवत्यभ्युद्यतविहारेण विहर्तुं सोऽपि नाभ्युद्यतविहारं प्रतिपद्यते; तस्य शिष्यनिष्पत्त्यभावेनाभ्युद्यतविहारप्रतिपत्त्यशक्त्या वा गच्छं परिपालयतो दीर्घायुषो वृद्धवासस्य कालः ॥ २२३९॥
गाथा २३३९-२३४५ वृद्धवासस्वरूपम्
९८२ (A)
१.वज्ज कया चारिय-ला.॥
For Private and Personal Use Only