________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९८१ (B)
܀
तमेवाहअंतोमुहुत्तकालं, जहन्नमुक्कोस पुव्वकोडीओ । मोत्तुं गिहिपरियागं, जं जस्स व आउयं तित्थे ॥ २२३८ ॥
वृद्धवासो जघन्येनान्तर्मुहूर्तं कालं कथमिति चेदुच्यते-वृद्धवासबुद्ध्या स्थितस्यान्तर्मुहूर्तानन्तरं मरणभावाद् । उत्कर्षतः पूर्वकोटी गृहपर्यायं नववर्षलक्षणं मुक्त्वा , नववर्षोना पूर्वकोटी इत्यर्थः । कथमेतावान् कालो वृद्धवासस्य लभ्यते? इति चेत् , कोऽपि नववर्षप्रमाण एव श्रमणो जातः । स च श्रामण्यपरिग्रहादनन्तरमेव प्रतिकूलकर्मोदयवशतः क्षीणजङ्घाबलतया रोगेण वा विहर्तुमसमर्थो जातस्तत एकत्र वासो यथोक्तकालमानो भवति। इदं चोत्कर्षतो वृद्धवासकालपरिमाणं भगवत ऋषभस्वामिनस्तीर्थे । शेषतीर्थकरतीर्थान्यधिकृत्याह-यस्य वा तीर्थकरस्य तीर्थे यत् उत्कृष्टमायुः प्रमाणं वर्षनवकहीनं तस्य तीर्थे तावान् उत्कृष्टो वृद्धवासकाल: ॥२२३८॥
गाथा २२३३-२२३८
अवग्रहस्वरूपम्
९८१ (B)
तत्र योऽसौ जरापरिणामेन वृद्धवासीभूतः स एतादृश:
For Private and Personal Use Only