________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९८१ (A)
केवतिकालं उग्गहो? तिविहो उउबद्धे१ वासर वुड्डे३ य । मासचउमास वासे, गेलण्णे सोलसुक्कोसा ॥ २२३६ ॥
कियन्तं कालमवग्रह ? इति शिष्येण प्रश्ने कृते सूरिराह-त्रिविधो भवति अवग्रहस्तद्यथाऋतुबद्धे१ वर्षे वर्षाकाले२ वृद्धवासे३ च । तत्र ऋतुबद्धे काले उत्सर्गत एकं मासमवग्रहः। | वर्षे वर्षाकाले चतुरो मासान्। ग्लानत्वमधिकृत्योत्कर्षतः षोडश मासान् । अन्ये तु षोडश वर्षाणीत्याहुः ॥२२३६ ॥
सम्प्रति वृद्धवासशब्दस्य व्युत्पत्तिमाहवुड्डस्स उ जो वासो, वुढेि व गतो उ कारणेणं तु ।। एसो उ वुड्डवासो, तस्स उ कालो इमो होइ ॥ २२३७ ॥
वृद्धस्य जरसा परिणतस्य परिक्षीणजवाबलस्य वा सतो वासो वृद्धवासः, अथवा वृद्धः कारणवशेन रोगेण वृद्धिं गतो वासो वृद्धवासः । एष खलु वृद्धवासः वृद्धवासशब्दार्थः । तस्य तु वृद्धवासस्य कालोऽयं वक्ष्यमाणो जघन्यादिभेदभिन्नो भवति ॥ २२३७॥
गाथा २२३३-२२३८
अवग्रहस्वरूपम्
९८१ (A)
For Private and Personal Use Only