________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९८० (B)
व्यवच्छिन्नो नाम तासां गुरुरुपरत: कालगत इत्यर्थस्तस्मिन् गुरावुपरते यदि कुलिच्चमन्नं ति कुलसत्कमन्यमाचार्यमभिधारयन्ति ततस्तासां द्वयोर्बहूनां वा पिण्डके समुदायेन स्थितानां गीतार्थानां सतीनां पिण्डकेन व्यवस्थितानामपि नावग्रहः, संयतीनां स्वतन्त्राणामवग्रहाभावात् ॥ २२३४॥
मिश्रे विशेषमाह
मीसो उभयगणावच्छेओ, तत्थ समणीण जो लाभो । सो खलु गणिणो नियमा, पुवट्ठिया जाव तत्थपणे ॥ २२३५ ॥ मिश्रो नाम उभयगणावच्छेदकस्तत्र उभयगणावच्छेदके सति यः श्रमणीनां संयतीनां लाभः स खलु नियमात् ये पूर्वस्थितास्तत्र गणिनो यावदन्ये नाऽऽगच्छन्ति तावत्तस्य गणिनो वेदितव्यः। सोऽन्येष्वाचार्येष्वागतेषु तेषामिति ॥ २२३५ ॥
गाथा ४२२३३-२२३८
अवग्रहस्वरूपम्
९८० (B)
तदेवं गतं कस्येति द्वारम् । सम्प्रति कियन्तं कालमवग्रहः इति द्वारव्याख्यानार्थमाह
For Private and Personal Use Only