________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९८० (A)
आह- यत् यस्मात् स क्षेत्रिकः क्षेत्रस्य प्रभुरासीत्तस्मान्न शक्यते वक्तुं तस्मिन् क्षेत्रे आत्मसमुत्थस्य लाभस्य न ईशः प्रभुरिति ॥ २२४० ॥ तदेवमुक्तो विधिः संयतानाम् । अधुना संयतीनां विधिमतिदेशत आह
आरब्भ सुत्ता सरमाणगातो, जा पिंडसुत्तं इणमंतिमं तू । एमेव वच्चो खलु संजतीणं, वोच्छिन्न-मिसेसु अयं विसेसो ॥ २२३३ ॥
सरमाणकान् “आयरिय उवज्झाए सरमाणे" [सू. १५] इत्येवंरूपात्सूत्रादारभ्य यावदिदं | अन्तिमं पिण्डसूत्रम् [सू. ३२] एतेषु सूत्रेषु यथा संयतानां विधिरुक्तः एवमेव खलु संयतीनामपि गीतार्थपरिगृहीतानां वाच्यः, केवलं व्यवच्छिन्ने मिश्रे च अयं वक्ष्यमाणो विधिविशेषः ॥२२३३॥
तमेवाहवोच्छिण्णे उ उवरए, गुरुम्मि गीयाण उग्गहो तासिं । दोण्ह बहूण व पिंडए, कुलिच्चमन्नं जयऽभिधारे ॥ २२३४ ॥
गाथा २२३३-२२३८
अवग्रहस्वरूपम्
९८० (A)
For Private and Personal Use Only