SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ७९९ (A) कृतकरणा नाम गीतार्थतया परिणामकतया वाऽन्यदाऽपि अन्यैः सहानेकश ईदृशानि कार्याणि कृतवन्तः। यद्यपि च कदाचिद् द्वितीयः सहायो न कृतः तथापि योग्यतया स कृतकरणीय इव द्रष्टव्यः। स्थविराः श्रुतेन पर्यायेण च। तथा सूत्राऽर्थयोर्विशारदाः सूत्रार्थविशारदाः। तथा श्रुतानि रहस्यान्यनेकान्यनेकशो यैस्ते श्रुतरहस्याः। इदं सहायं प्रति विशेषणम्, सूरेरुपाध्यायस्य वा पूर्वगतसूत्रार्थधारिणोऽधिगतछे दश्रुतस्य च श्रुतरहस्यत्वाव्यभिचारात् । तथा द्वयोरेकतरस्मिन् कालगतेऽपरेण शरीरपारिस्थापनिकां कर्तुं गच्छता द्वयोरप्युपधिः शून्यायां वसतौ न मोक्तव्यः, मा दस्यवस्तमपहार्षुरिति कृत्वा द्वयोरप्युपधिं मृतकशरीरं चान्यतरेण वोढव्यम्, ततो ये कालगतानां देहं द्वयोरप्युपधिं च वोढुं समर्थास्ते अधिकृतसूत्रविषयाः ॥ १७२३ ॥ गाथा तथा चाऽऽह - |१७२१-१७२६ द्विकविहारएयगुणसंपउत्ता, कारणजाएण ते दुवग्गा वि ।। प्रयोजनादिः उउबद्धम्मि विहारो, एरिसयाणं अणुनातो ॥ १७२४ ॥ दारं ५॥ ७९९ (A) एतैरनन्तरगाथोक्तैर्गुणैः सम्प्रयुक्ता एतद्गुणसम्प्रयुक्ताः कारणजातेन अनन्तरोदितेन |* For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy