SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहार . सूत्रम् परिरयेण गत्वा स्तोकपानीये समुत्तरन्ति, चिन्तयन्ति च- वयं सार्थे झटित्येव मिलिष्यामः, ते च तथा परिरयेण गच्छन्तः सार्थात् स्फिटिताः। अथवा आतुरा: प्रथमद्वितीयपरीषहाभ्यां जिताः, ते तथा आतुराः सन्तोऽशक्नुवन्तः सार्थात् परिभ्रष्टाः । स्तेनाः-चौराः, आदिशब्दात्परचक्रादिपरिग्रहस्तेषु स्तेनादिषु समापतत्सु भयेन पलायमाना गच्छादवस्फिटिताः । एवमध्वादिषु साधवो नष्टा भवन्ति ॥ २२२६ ॥ . . चतुर्थ उद्देशकः ९७८ (A) अत्र मार्गणविधिं दिग्धारणविधिं चाहगवेसऊ मा व कयव्वया जे, सच्चेव तेसिं तु दिसा पुरिल्ला । गवेसमाणो लभतेऽणुवढे, अणाढिया संगहिया उ जेणं ॥ २२२७॥ ये कृतव्रता उपस्थापिता इत्यर्थः, तान् प्रव्राजनाचार्यो गवेषयतु वा मा वा, तथापि तेषां सैव दिक् पुरातनी या प्रव्राजनाचार्येण कृता, ये त्वनुपस्थापितास्तान् यदि प्रव्राजनाचार्योऽशठभावेन गवेषयति न च लभते तथापि तान्सुचिरेणापि कालेन लब्धान् स एव प्रव्राजनाचार्यो लभते। अणाढिया संगहिया उ जेणं इति ये पुनरनादृताः न आदरपरेण गाथा २२२७-२२३२ अध्वादिनष्टानां मार्गणदिग्धारणादिः ९७८ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy