________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९७७ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एष संस्तरणे विधिः । असंस्तरणमधिकृत्याह—
असंथरणे निंतऽनिंते, चउभंगो होइ तत्थ वि तहेव । एवं ता खेत्तेसुं, इणमन्ना मग्गणविहादी || २२२४ ॥
असंस्तरणे साधुषु निर्गच्छदनिर्गच्छत्सु चतुर्भङ्गी भवति । सा चैवम् - वास्तव्यानां चतुर्भागादिना प्रकारेण साधवो निर्गच्छन्ति न वाचनाचार्याणामिति प्रथमः १, वाचनाचार्याणां नेतरेषामिति द्वितीयः२, उभयेषामिति तृतीय: ३, नोभयेषामिति चतुर्थः ४ । तत्रापि चतुर्भङ्गयामपि तथैवाऽऽभवनव्यवहारः, द्वयानामप्यात्मसमुत्थो लाभ इति भावः । तृतीयभङ्गे यद्येकतर एकतर पार्श्वे साध्वभावत उपसम्पद्यते तत उपसम्पद्यमानलाभ इतरस्मिन् सङ्क्रामति । अनुपसम्पत्तौ चद्वयोरपि साधारणं क्षेत्रम् । एवं तावत् क्षेत्रे मार्गणा कृता । अयमन्यो मार्गणाविधिरादिशब्दात् दिग्धारणपरिग्रहः, गाथायां च स्त्रीत्वनिर्देशः प्राकृतत्वात् ॥२२२४॥
तमेव मार्गणाविध्यादिकमाह
अद्धाणादिसु नट्ठा, अणुवट्ठविया तहा उवट्ठविया ।
विट्ठा य विट्ठा, निप्फण्णा धारणदिसासु ॥ २२२५ ॥
For Private and Personal Use Only
***
गाथा
| २२१८-२२२६ वर्षाकाले
आभवनविधि:
९७७ (A)