SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७६ (B) यतः प्रबन्धेन वर्षं पतितुमारब्धं, न च क्षेत्रप्रत्युपेक्षका: समागच्छन्, ततः समाप्तेऽपि श्रुते स वाचनाचार्यस्ततः क्षेत्रान्निर्गन्तुं न शक्नोति, अनिर्गतश्च तस्मिन् क्षेत्रे चतुरो वर्षारात्रमासान् यावदात्मगतं आत्मसमुत्थं लाभं लभते, द्वितीयोऽप्यात्मसमुत्थस्य लाभस्य स्वामी। एवं कुर्वते व्यवच्छिन्ने समाप्ते श्रुते। अथवा गिलाणस्स वि य इति समाप्ते श्रुते वाचनाचार्यो ग्लानोऽभवत्, ततो गन्तुमशक्तस्यापि च ग्लानस्यैवमाभवनव्यवहारो दृष्टव्यः, उभयोरपि चतुरो वर्षामासानात्मसमुत्थो लाभ इत्यर्थः ॥२२२२॥ . अह पुण अच्छिण्ण सुए, ते आया बेंतिमे य तुब्भं तु । गाथा २२१८-२२२६ अम्हे खेत्तं देमो, साहारणं तम्मि एसिं तु ॥ २२२३ ॥ वर्षाकाले अथ तत् श्रुतस्कन्धादिकमद्यापि न समाप्तं, ते च क्षेत्रप्रत्युपेक्षका आयातास्ततो || विधि: वाचनाचार्या आपृच्छन्ति वयं निर्गच्छामः । तत इमे प्रतीच्छिका आचार्या ब्रुवते, मा यूयं ९७६ (B) निर्गच्छत, समाप्तेऽपि श्रुते युष्माकं वयं क्षेत्रं दास्यामः । एवमुक्ते तत्क्षेत्रमेतेषां द्वयानामपि साधारणं भवति ॥ २२२३ ॥ आभवन | For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy