SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७५ (B) आयसमुत्थं लाभं, सीसपडिच्छेहिं सो लहइ रुद्धो । एवं छिण्णुववाए, अच्छिण्णे सीसाऽऽगते दोण्हं ॥ २२१९ ॥ स प्रातीच्छिकैर्गच्छन्नपरुद्धः सन् यत्स्वयं लभते, यच्च तस्य शिष्या यच्च तस्य प्रातीच्छिका वा लभन्ते तत्सर्वमात्मसमुत्थं शिष्यप्रातीच्छकैर्वा समुत्पादितं लभते। एवमाभवनं छिन्ने समाप्ते उपपाते उपपातहेतौ श्रुतस्कन्धादौ श्रुते दृष्टव्यम्। अच्छिन्ने असमाप्ते श्रुतस्कन्धादौ यदि तस्य पठत आचार्यस्य शिष्या ग्रामान्तरगताः प्रत्यागताः, तस्य च शिष्यो नियमात् गीतार्थो यस्य गण आरोपितस्तदा द्वयोरपि लाभः साधारणः, गीतार्थे शिष्ये निक्षिप्तगणतया पठतोऽप्याचार्यस्य, पाठयिता गच्छन् तेन प्रतिरुद्ध इति पाठयितुरप्याभवनात् ॥ २२१९ ॥ एवं ता उउबद्धे, वासासु इमो विही हवति तत्थ । खेत्तपडिलेहगा उ, पयट्टिया तेण अन्नत्थ ॥ २२२० ॥ एवं तावत् ऋतुबद्धे काले आभवनव्यवहारविधिरुक्तः, वर्षासु वर्षाकाले पुनरयं | वक्ष्यमाणो विधिर्भवति, तमेवाह- तत्थेत्यादि, द्वयोराचार्ययोः ऋतुबद्धे काले साधारणक्षेत्रस्थितयोरेकोऽपरस्यैकस्य पार्श्वे उपसम्पदं गृहीतवान्, वर्षा रात्रश्च प्रत्यासन्नीभूतः, अन्यानि गाथा २२१५-२२२० ऋतुबद्धे काले आभवन विधि: ९७५ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy