SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९७४ (B) वाच्यमानो निर्गतेषु शिष्येषु वाचनाग्रहणाय पश्चात् स्थितः। समाप्ते श्रुतस्कन्धे वाचयता सुखदु:खनिमित्तमात्मोपसम्पदं ग्राहितस्तदा वाचयति आभवति क्षेत्रम् ॥ २२१५ ।। दोण्हवि विणिग्गएK, वाएंतो तत्थ खेत्तितो होति । तम्मि सुए असमत्ते, समत्ते तस्सेव संकमति ॥ २२१६ ॥ द्वयोरपि शिष्येषु विनिर्गतेषु तावेव द्वौ केवलौ तिष्ठतः, तत्र यावदद्यापि तत् श्रुतं न | समाप्यते तावत्तस्मिन् श्रुते असमाप्ते तत्र तयोर्द्वयोर्मध्ये वाचयन् क्षेत्रिको भवति । समाप्ते पुनः श्रुते तस्यैव पूर्वस्थितस्य तत्क्षेत्रं सङ्क्रामति। अथ द्वावपि परस्परं सुखदुःखोपसम्पदं प्रतिपन्नौ तदा साधारणं क्षेत्रमिति यो यल्लभते तस्य तदाभवतीति ॥२२१६ ॥ संथरे दो वि न नेती, तेहि उ उववाइया उ जइ सीसा । लाभो नत्थि महं ति य, अहव समत्ते पधावेजा ॥ २२१७॥ संस्तरे संस्तरणे द्वयेऽपि पूर्वस्थिता आगन्तुकाश्च न निर्गच्छन्ति। तैश्च पूर्वस्थितैर्यदि | बहवः शिष्या उपपादिता उत्पादितास्तदा स आगन्तुको नास्ति मम लाभ इति विचिन्त्य गाथा २२१५-२२२० ऋतुबद्धे काले आभवन विधिः | | ९७४ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy